Follow by Email

Saturday, August 27, 2016

Varadarajastava of Sri Appayyadikshita-24

वरदराजस्तवः-२४

उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नाम्
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८ ॥
अ : परमपूरुष ! अधि-भुज-अन्तरम् पार्श्वद्वये उल्लसन्ती हार-माला तत्रत्य-कान्ति-सरितः तरलैः ऊर्मि-उत्करैः उभयतः प्रणुन्नां सित-फेन-पङ्क्तिं उत्प्रेक्षयति ।
O Ultimate Being ! your garland (of pearls) glittering between your shoulders looks as if it is the  trembling  line of white foam on either side of the series of waves of the river of the lustre (of your chest).

त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९ ॥
अ : अच्युत, त्रिभुवन-एक-महा-वदान्य ! वैजयन्ती सर्व-भूत-मयम् आश्रित-सर्व-वर्णं सर्व-गन्धं त्वाम् उपगता (इति) यत् तेन एव ते सकल-अभिनन्द्यं सारूप्यम् आवहति किम्?
O Acyuta ! the greatest of all munificent givers in this world ! Is it that Vaijayanti, the garland, has attained complete identity with you which is admired by all simply because it has taken refuge in you who comprises all beings, who comprises all colours and smells? 
Note : Vaijayanti is as fragrant and colourful as yourself.

ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरःशरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७० ॥
अ : देव, पुरुषोत्तम ! कौस्तुभ-पूर्ण-चन्द्रः तव ताराभिराम-परिणाह-लसत्-सिताभ्रं तापिञ्छ-मेचकं शरद्-अन्तरिक्षम् उरः प्राप्य एव पूर्णां कान्ति-रेखां बिभर्ति ।
The foremost of all beings ! your chest, dark blue like Tamala tree, is the autumnal sky, with white clouds in the form of white pearls. The full moon- like Kaustubha gem bears lustre in its entirety.
- - - -  

Saturday, August 20, 2016

Varadarajastava of Appayyadikshita- 23

वरदराजस्तवः-२३

प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५ ॥
अ : वरद ! तव वक्षसि प्रालम्बिकाम् उपगताः पद्मरागाः प्रत्यग्र-घर्मकर-मण्डल-निर्विशेषाः
लक्ष्म्याः पर्यङ्कके पार्श्व-भाजः क्रीडा-उपबर्ह-तिलकाः इव भान्ति ।
O Bestower of boons ! The rubies which are a part of your pendant neck-lace, which are indistinguishable from the orb of the rising sun look like the side pillows on the couch of Lakshmi.
Note: Lakshmi is supposed to have her abode on the chest of Vishnu.

अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥ ६६ ॥
अ : ईश्वर ! भानुः त्रयी-मय-तनुः अस्तु । तथा अपि तव लम्ब-नाली-रत्नैः तिरस्क्रियते एव । निशान्तम् उपागतानां सतां एवं तिरस्कृति-कृत् कः सुवृत्तैः सोढः, बत ?
Lord ! The sun may be said to be the embodiment of the Vedas. Even then your pendant gems (of your neck-lace)  put him to shame. How can people of character(सुवृत्त) tolerate a person humiliating virtuous persons(सताम्) who have arrived at one’s home?(निशान्तम् उपागतानाम्) ( How can gems with circular shape tolerate a person who humiliates stars which appear at the end of the night?)
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७ ॥
अ : ईश ! गिरिशेन दग्धं मदनं वने भस्मनि नष्टे अपि स्त्रीणां हृदि प्रतिबोधयन्तः तव हार-ताराः भस्मोच्चये कृत-कच-प्रतिबोधनं तं शुक्रं कथं न जयन्तु ?
The pearls of your neck-lace revive Cupid who was burnt to ashes by Lord Shiva, in the hearts of women. How will they not win over Shukra (Venus) who revived Kacha from his ashes?
Notes: What the poet means is that the pearls of the necklace are brighter than Venus. The reference is to a Puranic story as per which Shukra the preceptor of Asuras revived Kacha his disciple who had been burnt by Suras and whose ashes were mixed with a potion offered to Shukra. Shukra managed to revive Kacha. 
- - - - 

Saturday, August 13, 2016

Varadarajastava of Appayyadikshita- 22

वरदराजस्तवः-२२

 उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ-
नाभ्युद्गताम्बुरुहकुड्मलपङ्क्तिशोभाम् ॥ ६२ ॥
अ : अच्युत ! एषा उदर-बन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः आगामि-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुड्मल-पङ्क्ति-शोभाम् उल्लासयति ।
This stream of bud-like rays from the divine red stone laid in your waist band generates the lustre of buds of lotuses which will grow  out of your navel forming the source for Brahmas over many hundreds of   the future aeons.

ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मात्
रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं
पश्यामि देव परमं पदमेव साक्षात् ॥ ६३ ॥
अ : देव ! तव विरिञ्चि-भवनात् नाभि-पद्मात् रोमावली-पद-जुषः तमसः परस्तात् मुक्त-ओघ-मण्डितम् उन्-मयूखं उरः-स्थलं साक्षात् परमं पदम् एव पश्यामि ।
Lord ! beyond the darkness called your streak of hair above the lotus from your navel, which is the abode of Brahma, I look at your brilliant chest adorned with a torrent of pearls( the liberated souls) as the final abode for the enlightened.

सालैरुदंशुचयरत्नललन्तिकाख्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
बिभ्राजते विपुलमेतदुरस्त्वदीयम्
अन्तः पुरं जलधिराजकुमारिकायाः ॥ ६४ ॥
अ : एतत् जलधि-राज-कुमारिकायाः अन्तःपुरं त्वदीयम् विपुलम् उरः उदंशु-चय-रत्न-ललन्तिका-आख्यैः सालैः स्फीत-उल्लसत्-कुसुमया वनमालया च बिभ्राजते ।
Your broad chest which is covered by the fort-like pendant ornaments made out of gems and rubies with their rays radiating upwards and a garland of fully blown forest flowers (royal garden) is brilliant forming the inner apartments of Lakshmi, daughter of  the ocean-lord.
- - - - 

Saturday, August 6, 2016

Varadarajastava of Appayyadikshita-21

वरदराजस्तवः-२१

नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इतिश्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९ ॥
अ : चतुर्भुज, यदुनेतः ! तव नाभेः अन्तरिक्षं न अभूत्, यत् इयं नाभिः एव ततः अभूत् । नाभ्याः इति श्रुति-विपर्ययगे विभक्ती । जैमिनेः पशोः च सूत्रं ताम् अनुससार ।
O God with four shoulders ! Leader of Yadu clan ! The sky did not arise from your navel because your navel arose out of the sky. It is a reversal of cases that “naabhyaah” is used in the fifth case in the Vedic hymn. The Sutra of Jaimini simply followed the case reversal
Note : The verse refers to an esoteric discussion in the Vedas and the Jaimini sutras, where case reversal between the fifth case and the first case happens.

आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६० ॥
अ: समुद्र-शायिन् ! नायक ! आरोपम् अध्यवसितिं च विना एव तव अस्यां नाभौ सरः-पदं वृत्तिं कथं न उपैतु । इयं सरसिजस्य साक्षात् उत्पत्ति भूः इति अयं न ऊहः हि ।
 O Leader, One who sleeps on the ocean ! This navel of yours merits being equated with a lake, without invoking “aaropa” or “adhyavasaaya”. It is not a matter of supposition that this (your navel) is the source for the lotus ( sarasija=born in a lake).
Note: The poet has used technical words “aaropa” and “adhyavasaaya” employed in poetics. Aaropa is to equate the object of comparison and the subject of comparison clearly expressing their difference, while “adhyavasaaya” is equating without expressing the difference.

कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतत्
भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
अ : मुरारे ! कल्प-अन्तरेषु कमलासनानां भूयः अपि विततिं कर्तुम् इव भूरि रजः दधानं तव एतत् नाभि-ह्रदे समुदितं नलिनं सदा एव मम भूतिकरं भूयात् ।

O, Enemy of demon Mura ! May this lotus which has grown out of deep lake-like navel which carries plenty of pollen as if to provide for the births of Brahma in future aeons bring me well being always.
- - - - 

Saturday, July 30, 2016

Varadarajastava of Appayyadikshita-20

वरदराजस्तवः-२०

ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतत्
यस्योर्वशी सुभग सापि विभूतिलेशः ॥ ५६ ॥
अ : सुभग ! वामस्य ऊरोः अमुष्य दक्षिणं तं विहाय उपमान-भावं अन्यत् किम् अयताम् ? यस्य सा ऊर्वशी अपि विभूति-लेशः रम्भा-आदयः सदृशः इति एतत् उचितं किम्?
Handsome lord ! What can be comparable to your left thigh other than your right thigh? When Urvashi is a part of the manifestation of your thigh’s power, is it right that Rambha and others are compared to your thigh?
Note: Thighs are often compared with plantain plant (Rambha).

नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैष किं नु महिमा परिशीलनस्य ॥ ५७ ॥
अ : नाथ ! त्वया परिहितं यत् वसनं वरवर्णिनीनां रागस्य आस्पदतां बिभर्ति, तस्य सौन्दर्य-सार-निलयेन कटी-तटेन परिशीलनस्य एषः महिमा नु किम्?
Lord ! The dress you wear bears the colour (love) of fair ladies; is it because it is in close touch with your hips, the abode of the essence of beauty?

संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
अ : सारसन-मध्य-तल-उदय-अद्रिं संप्राप्य अरुणैः मयूखैः मध्य-अम्बरं मसृणयन् एष मणिः पूषा संसार-रात्रि-उपरतिं गतवद्भिः एव संवीक्ष्यते ।
 This sun-like gem which smoothens the central part of the cloth (mid sky) with its reddish- brown rays at the centre of the girdle can only be seen by those who have reached the end of the night-like cycle of birth and death.[ Just as the morning sun is visible on the Eastern horizon only after the night elapses, the gem at the centre of the girdle is visible only for those who have spent the night of birth and death.]
- - - -  

Saturday, July 23, 2016

Varadarajastava of Appayyadikshita-19

वरदराजस्तवः -१९

नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यः
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
अ : नाथ ! त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः तत्-कान्ति-लेश-कणिकाः जलधिं प्रविष्टाः । ताः एव तस्य मथनेन घनीभवन्त्यः समुद्र-नवनीत-पदं प्रपन्नाः ।
Lord ! Streaks of lustre of your feet sticking in the water washing your feet joined the ocean and when the ocean was churned they became the butter (moon) arising out of it.

सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४ ॥
अ : सव्य-अपसव्य-शर-मोक्ष-कृती इक्षु-धन्वा तव जङ्घे स्व-शरधी इति सन्दिहानः अङ्घ्रि-कटक-उद्गत-रुक्-छलेन निज-शरान् अभितः न्यस्य अनुरूप-भावम् आलोकते |
Cupid, who is an adept in shooting arrows from the left and the right doubting that your shanks are his quivers looks for similarity by placing his arrows in the form of rays emanating from the anklets.

जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५ ॥
अ : जगत्-त्रय-नाथ ! तव जानु-द्वयं मारस्य केलि-मणि-दर्पणताम् उपेतम् इति मन्ये यत् अवदात-मनोज्ञ-वृत्तम् आलोकयन् एषः निजं रूपं विपरीतं कलयते ।
Lord of the three worlds ! your knees have become mirrors for playing for Cupid, who after looking at your white elegant knees sees his own image in reverse (and thinks himself to be ugly).
- - - -  

Saturday, July 16, 2016

Varadarajastava of Appayyadikshita-18

वरदराजस्तवः-१८

गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
सङ्घट्टनात्पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधा-
वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५० ॥
अ: ईश ! ऊर्ध्वग-अण्ड-सङ्घट्टनात् तव पद-नख-अग्र-मयूख-लेशं गङ्गा-छलेन निःसृतं
पयोधौ पतितम् आलोक्य अमराः तम् आमन्थ्य तत् इन्दुरूपं जगृहुः नूनम् ।
Lord ! When your foot struck the top of the Brahmanda ( at the time of your incarnation as Vamana) the slice of rays emanating from the tip of your toenails fell into the ocean in the form of Ganga and I believe the divine beings churned the ocean and obtained the moon as the result of that churning.  

पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान् कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम्  ॥ ५१ ॥
अ: मुरारे ! पाद-आनमत्-सुर-शिरोमणि-पद्मरागान् स्फुरत्-सहज-रुक्-प्रकरान् मुक्तामयान् कराग्रैः प्रकटम् विदधतां नखानाम् जैवातृकत्वम् उचितम् ननु ।
O slayer of Mura ! the lustre of rubies in the crowns of divine beings who bow at your feet become pearl coloured due to the rays of your nails and it is apt that your toenails are said to be moon-like. [Playing a pun on words, रुक्, मुक्त आमय ,जैवातृक which also mean disease, free of disease and doctor respectively the poet suggests a parallel meaning to say that your toenails act as a doctor to free your devotees from diseases just by being present.]  

यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२ ॥
अ : ईश ! अम्बुरुह-आसन-ईड्यं ते पद-अम्बुरुहं सकृत्  प्रपद्य धन्याः मुक्ताः भवन्ति इति यत् तत् एव नित्यं भजताम् दिव्य-मणि-नूपुर-मौक्तिकानां अतिमुक्त-लक्ष्मीः युक्ता एव ।

Your devotees get salvation by just surrendering once to your feet, which are worshipped by Brahma, who has a lotus for his seat. It is, therefore, appropriate that your divine gem-laden anklets which all the time serve your feet have the lustre of ‘atimukta’ creeper. (The poet plays on अतिमुक्त which also means “greatly freed”.)
- - - -