Saturday, October 29, 2016

Varadarajastava of Sri.Appayyadikshita-33

वरदराजस्तवः -३३

सिद्धौषधं जयति तेऽधररत्नपात्रे
तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगात्
अस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९६ ॥
अ : वारिजविलोचन ! ते अधर-रत्न-पात्रे सिद्ध-औषधं जयति येन सिक्तं तापत्रयी झट् इति मुञ्चति । गुण-लेश-योगात् तुषार-किरणं अस्य एव कल्क-पुञ्जं मन्ये ।
O Lotus-eyed ! In the cup of your gem-like lips there is a sure medicine, soaked with which the threefold afflictions of life quickly vanish. I believe that having a little of the quality of this elixir, the rays of moon are the sediments of this elixir.    

आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९७ ॥
अ : अवयवेषु गत-आगतानि आतन्वतां युक्त-आत्मनां यौवत-चक्षुषां च विश्रान्ति-भूः तव इयं विधु-कर-प्रकर-अवदाता  मन्दस्मित-छविः मां पुनातु ।
May the lustre of your smile as white as the rays of the moon, which acts as a resting place for the realized souls and the eyes of youthful persons who roam (ruminate) over your limbs purify me.

निःश्वासमन्दमलयानिलकन्दलेन
निर्हारिणा बहुतरेण च सौरभेन ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९८ ॥
अ : नलिन-लोचन ! निःश्वास-मन्द-मलय-अनिल-कन्दलेन निर्हारिणा बहुतरेण सौरभेन च ते मनोज्ञौ नासा-पुटौ मधु-माधवयोः सदा एव निवासौ इति मन्ये ।
O Lotus-eyed  ! I surmise from your exhaled breath which is soft like new shoots and the fragrance that diffuses to distances that your beautiful nostrils are permanent abodes of the two months of the spring.
- - - - 

No comments:

Post a Comment