Saturday, December 10, 2016

Invocatory Verses-4

मङ्गलश्लोकाः-४

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
सः स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ ४ ॥
अ : वेदान्तेषु यं रोदसी व्याप्य स्थितं एकपुरुषं आहुः, यस्मिन् ईश्वरः इति शब्दः अनन्य-विषयः यथार्थ-अक्षरः, यः च नियमितप्राणादिभिः मुमुक्षुभिः अन्तः मृग्यते, सः स्थिर-भक्ति-योग-सुलभः स्थाणुः वः निःश्रेयसाय अस्तु ।
The Vedantas call him as the single entity pervading the Heaven and the Earth; The word “Ishvara” literally denotes him and none else; Those desirous of salvation seek him internally by controlling their breaths. May that Lord Shiva, the immovable, who is easily attainable through steady devotion, lead you all to Final Beatitude. [ Kalidasa, Vikramorvashiyam ]  
- - - -

No comments:

Post a Comment